|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.255. अध्यायः 255
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति ज्ञानादिप्रशंसापरव्यासवाक्यानुवादः॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
व्यास उवाच। 12-255-0x(6260)(75620)
सृजते त्रिगुणान्सत्वं क्षेत्रज्ञस्त्वधितिष्ठति।
गुणान्विक्रियते सर्वानुदासीनवदीश्वरः॥ 12-255-1(75621)
स्वभावयुक्तं तत्सत्वं यदिमान्सृजते गुणान्।
ऊर्णनाभिर्यथा सूत्रं सृजते तन्तुवद्गुणान्॥ 12-255-2(75622)
प्रध्वस्ता न निवर्तन्ते प्रवृत्तिर्नोपलभ्यते।
एवमेके व्यवस्यन्ति निवृत्तिरिति चापरे॥ 12-255-3(75623)
उभयं संप्रधार्यैतदध्यवस्येद्यथामति।
अनेनैव विधानेन भवेद्गर्भशयो महान्॥ 12-255-4(75624)
अनादिनिधनं नित्यं तं बुद्ध्वा विचरेन्नरः।
अक्रुध्यन्नप्रहृष्यंश्च नित्यं विगतमत्सरः॥ 12-255-5(75625)
इत्येवं हृदयग्रन्थिं बुद्धिचिन्तामयं दृढम्।
अतीत्य सुखमासीत अशोचंश्छिन्नसंशयः॥ 12-255-6(75626)
ताम्येयुः प्रच्युताः पृथ्व्यां यथा पूर्णां नदीं नराः।
अवगाढा ह्यविद्वांसो विद्धि लोकमिमं तथा॥ 12-255-7(75627)
न तु ताम्यति वै विद्वान्स्थले चरति तत्त्ववित्।
एवं यो विन्दतेऽऽत्मानं केवलं ज्ञानमात्मनः॥ 12-255-8(75628)
एवं बुद्ध्वा नरः सर्वं भूतानामागतिं गतिम्।
समवेक्ष्य च वैषम्यं लभते शममुत्तमम्॥ 12-255-9(75629)
एतद्वै जन्मसामर्थ्यं ब्राह्मणस्य विशेषतः।
आत्मज्ञानं शमश्चैव पर्याप्तं तत्परायणम्॥ 12-255-10(75630)
एतद्बुद्ध्वा भवेद्बुद्धः किमन्यद्बुद्धलक्षणम्।
विज्ञायैतद्विमुच्यन्ते कृतकृत्या मनीषिणः॥ 12-255-11(75631)
न भवति विदुषां महद्भयं
यदविदुषां सुमहद्भयं परत्र।
न हि गतिरधिकाऽस्ति कस्यचि
द्भवति हि या विदुषः सनातनी॥ 12-255-12(75632)
लोकमातुरमसूयते जन
स्तत्तदेव च निरीक्ष्य शोचते।
तत्र पश्य कुशलानशोचतो
ये विदुस्तदुभयं कृताकृतम्॥ 12-255-13(75633)
यत्करोत्यनभिसन्धिपूर्वकं
तच्च निर्णुदति ---
न प्रियं तदुभयं न चाप्रिय
तस्य तज्जनयतीह कुर्वतः॥ ॥ 12-255-14(75634)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि पञ्चपञ्चाशदधिकद्विशततमोऽध्यायः॥ 255॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-255-2 ऊर्णनाभिर्यथा सत्वमिति ट. ड. पाठः॥ 12-255-7 नात्येयुः प्रच्युता इति ध. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|